Make your own free website on Tripod.com

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

 

तेजन- वज्रो वै तेजनम् । मै ४,,

तेजनी- पाप्मा वै तेजनी । तै ३, ,१९,

 

तेजस्

१. अग्ने यत्ते तपस्तेन तं प्रति तप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते शोचिस्तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते अर्चिस्तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते हरस्तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो । मै , ,.

वैदिकनिघण्टु मध्ये एकादशाः ज्वलतो नामानि सन्ति। तेषां मध्ये अर्चिः, शोचिः, तपः, तेजः, हरः, घृणिः, शृङ्गाणि सन्ति।

२. अग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमि तेजोदाम् , तेजो मा मा हासीत् , माहं तेजो हासिषं , स्वाहा । मै , , ।।

३. अपां यो द्रवणे रसस्तेनाहमिमं.....तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । काठ ३६,१५। ४. सौत्रामणी -- अश्विनोस्त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि । मै , ११, ।।

५. पयः क्वथनम् -- तेज उद्यतः वायुः । तैआ ,११, । ।

६. अग्निहोत्रम् -- तेज एव श्रद्धा सत्यमाज्यम्...... अथैतदहूयतैव सत्यं श्रद्धायामिति । माश ११, , , ।।

७. इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत्तेजस्काम, स्तेजो वै घर्मस्तेजः सूर्यस्तेज एवावरुन्द्धे। मै , ,; तैआ ५, , ; १०, ३ ।

८. तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूम्̇स् तृतीयसवन इति। ...... अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।  । । तैसं , , , ।।

९. तेजसे कं पूर्णमा इज्यते..... आयुषे कममावास्येज्यते । मै , , ; काठ ९, १३ । ।

१०. आज्येन जुहोति  तेजो वा आज्यं तेजो वसोर्धारा  तेजसैवास्मै तेजोऽवरुन्द्धे । । तैसं , ,,।।

११. तेजो वा ऽग्निष्टोमस्तेजो विषुवत् तेजसैव तत् तेजस् संदधति, तेजसा तेजो रोहन्ति। जै , ३८७ । ।

१२. तेजो वै त्रिणव स्तोमानाम् । जै २, २१९ । ।

१३. तेजो वै त्रिवृत् (पृष्ठानि [तैसं.J)। तैसं ५, , , ; मै ४, ,१०।।

१४. तेजो वै प्रातःसवनम् (यज्ञायज्ञीयम् [जै.J) । मै ४, , ; जै ३, २९० ।

१५. तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमः । जै , ३१२। ।

१६. अथ यत्तप्ताभिर्मार्जयते शान्त्यै , अथो तेजो वै मदन्ती, स्तेज एवावरुन्धे  ॥ मै , ,१० ।।

अप्रतिषिक्तो वै घर्मस्तेजो ब्रह्मवर्चसं , तेजस्वी ब्रह्मवर्चसी भवति मै १.८.३

१७. वज्रो वै यूपो , अन्नं यवो , यद्यवमतीभिः प्रोक्षति वज्रेण वा एतदन्नं जयति, तेजो वै यूप , एष खलु वा ओषधीनां तेजो यद्यव। मै , , (तु. काठ २६, ; क ४१, ३) ।

१८. देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै...... वायुरसि तिग्मतेजा इत्याह तेजो वै वायुः ( वेणुः तैआ.] )। तै , , , ; तैआ ५, , ;,२। ।

१९. तेजो वै शुक्रो ब्रह्मवर्चसम् । मै , , ; , ९।।

२०. तेजो वै हिरण्यम् । तैसं ५, , १०, ; मै १, ११, ; काठ ११, , , २१, ; तै १,, , १ । (तु, मै ३, , ; काठ २४,; तै ३, १२, ,१२) ।

२१. तेजोऽसि, तेजो मे यच्छ, पृथिवीं यच्छ । तैसं ५, , , १।।

२२. अथाज्यमवेक्षते ।....तेजोऽसि शुक्रमस्यमृतमसीति स एष सत्य एव मन्त्रस्तेजो ह्येतच्छुक्रं ह्येतदमृतं ह्येतत्। माश , , , २८ ।।

२३. त्रिवृदग्निष्टोमो (+ऽग्निष्टुदाग्नेयीषु तैसं ७,,,J) भवति । तेज एवावरुन्धे । तैसं ७,,, ,  ५,५।।

२४. नवरात्रो भवत्यभिपूर्वमेवास्मिन् तेजो दधाति । तैसं ७, , , ३ ।

२५. नवारत्निः कार्यस्तेजसा त्रिवृता संमितः । मै ३, , २।।

२६. पशवो वै तेजो ब्रह्मवर्चसम् । मै १, , ३ ।।

२७. बृहस्पतिर्वा एतद्यज्ञस्य तेजः समभरद्यत् स्तोमभागाः । तैसं ५, , ,५ ।। २८, ब्रह्मणा तेजसा सह तस्य दोहमशीमहि। तैआ ४, २१,१।।

२९. ब्रह्म तेजो मे पिन्वस्व । काठ ५, २ ।।

३०. प्रवर्ग्यब्राह्मण -- मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति । तैआ , , ।।

३१. वृत्रस्य हननम् -- यत्तेजस्ते दर्भास्तस्मात्ते पवित्रं तस्माद्दर्भैरपः पुनन्ति । काठ २३,; क ३५, ७ ।

३२. यन्नवकपालस्त्रिवृतैवास्मिन् ( यजमाने ) तेजो दधाति । तैसं २, ,, ३ ।। ३३. वसन्तेन ऋतुना ( वसन्तर्तुना [तै !) देवा वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः । मै ३, ११, १२; तै २, , १९, १ ।

३४. समुद्रोऽसि तेजसि श्रितः, अपां प्रतिष्ठा । तै ३, ११,, ४। ।

३५. अग्निना तपोऽन्वाभवत् सूर्येण तेजः वायुना प्राणा..... । काठ ३५, १५; क ४८, १३ । ।

३६. हिरण्यं ब्रह्मणे ददाति तेजस्तेन परिक्रीणाति । काठ ३७, १ (तु. तैसं २, , ११, ५-६) ।

पूषा युनक्तु सविता युनक्तु बृहस्पतिर् वो युनक्तु । अग्नेस्तेजसा सूर्यस्य वर्चसा ॥ मै २.७.१२, तैआ ६.३.३

अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्य्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु तां १.३.५, १.७.३

सोमस्य त्वा द्युम्नेनाग्नेस्तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामि - मै २.६.११, ४.४.५

तेजसाऽग्निम् (आदित्योऽस्तं यन् प्रविशति)..... अथ यद् अङ्गारान् निरूहति येन तेजसाग्निं प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति जै १.७

अमृतं वै हिरण्यम् , तेजोऽग्नि , रमृतेन वा एतत्तेजो व्याघारयति (ह्यग्निः मै १.४.७) मै ३.३.६

यदाग्नेय,स्तेजो वा अग्नि,स्तेज एवावरुन्द्धे , यत्सौम्यः , सोमो वै शुक्रो ब्रह्मवर्चसं , ब्रह्मवर्चसं एवावरुन्द्धे - मै १.६.८, ४.७.३, काठ १०.२, २२.१, तै ३.३.४.३, ९.५.२, माश २.५.४.८, ३.९.१.१९

वायवे नियुत्वते तूपरम् आ लभते तेजो ऽग्नेर् वायुस्      तेजस एष आ लभ्यते तस्माद् यद्रियङ् वायुः ॥     वाति तद्रियङ्ङ् अग्निर् दहति      स्वम् एव तत् तेजो ऽन्व् एति - तैसं ५.५.१.१

मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु तैआ ४.४२.२

पृष्ठे पृथिव्यास्सीद, भासान्तरिक्षमापृण, ज्योतिषा दिवमुत्तभान, तेजसा दिश उद्दृंह काठ १८.४

अप्सु तेजः (प्रतिष्ठितम्) शांआ ६.२, कौउ ४.९

विराजो वै तेज आग्नेयः, शक्वरीणामैन्द्रो , रेवतीनां सौर्यो , यत्र पृष्ठानि युज्येरंस्तदेतान् जुहुयात् , साम्नां सतेजस्त्वाय मै ४.७.३

यदाग्नेयस्तेजस्तेनावरुन्धे, यदैन्द्र इन्द्रियं तेन, यत्सौर्यो रुचं तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति मै ४.७.३

तेजो वा अग्नि, रिन्द्रियमिन्द्रो, ब्रह्मवर्चसमसा आदित्य, स्तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥ मै ४.७.३

यदाग्नेयी तेजस्तयावरुन्द्धे मै २.५.२

आज्येन संयौति .....प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा तैसं ५.१.९.५

असौ वा आदित्यश्शुचिरेष तेजसः प्रदाता काठ ८.८

उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य तेजो वा उत्तरवेदिः तेजः प्रवर्ग्यः तेजसैव तेजः समर्धयति तैआ ५.१०.२

वज्रो वै यूपो , अन्नं यवो , यद्यवमतीभिः प्रोक्षति वज्रेण वा एतदन्नं जयति, तेजो वै यूप , एष खलु वा ओषधीनां तेजो यद्यवस्तस्मादेतं शिशिरा ओषधयोऽनुप्राणन्ति, यद्यवमवास्यति तेजसि वा एतत्तेजो दधाति मै ३.९.३

यजमानो वा अग्निष्ठास्तेजो घृतं, आन्तमविछिन्नमनक्ति, यजमानं एव तेजसानक्ति मै ३.९.३

तेजसा कृष्णाजिनस्य लोमभिः संसृजति तैसं ५.१.६.२-३

गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो ब्रह्मवर्चसं गायत्री ऐ १.५, १.२८ ......

तेजो वै गायत्री तैसं ३.२.९.३, ५.१.३.५, ५.३.८.१ ....

तपोऽसि लोके श्रितम्। तेजसः प्रतिष्ठा तै ३.११.१.२

तेजोऽसि तपसि श्रितम्। समुद्रस्य प्रतिष्ठा तै ३.११.१.३

दीक्षायै च त्वा (अग्ने) तपसश्च तेजसे जुहोमि तैसं ३.३.१.१

तेजस्काम

१. तेजस्कामो हैतेन यजेत यन्नवरात्रः जै २, ३१६ ।।

२. श्वेतं वायवे नियुत्वता आलभेत तेजस्कामः । मै ३, ,१० ।

तेजस्वत्- अग्नये त्वा तेजस्वते एष ते योनिः । तैसं १, ,२९,; काठ ४,११; क ३, ९।

ग्रीष्मस्याहं देवयज्ययौजस्वाँस्तेजस्वान् भूयासम् काठ ४.१४

 [ वत्- ओजस्वत्- .] ।

तेजस्विन्->तेजस्वितर- दक्षिणोऽर्द्धस्तेजस्वितरः । तै १, २४, २ ।।

एता (कूप्याः) वै तेजस्विनीरापः तैआ १.२४.२