पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

अन्धक-कुब्जक-त्रिस्तनी कथा (अपरीक्षितकारकम्, कथा 11)

मनुष्याः द्विस्तना भवन्ति, पशवः चतुःस्तनाः। न कोपि प्राणी त्रिस्तनवान् भवति। स्तन शब्दस्य अर्थः भवति – स्तनयन्, अभ्राणां गर्जनम्। यदा अभ्राः गर्जन्ति एवं विद्युत् विद्योतते, तदैव वृष्टिर्भवति। यदा प्राणिनाम् हृद्ये प्रेमः उपजायते, तदा स्तनेभ्यः स्वयमेव पयः स्रवते। अयं घटना अभ्रेभिः वर्षणरूप एव। किन्तु अत्र न कोपि शब्दः भवति। मनुष्येषु स्तनयनस्य अर्थं भविष्यति – करुणापूर्ण हृदयेन शोकाभवनम्। किन्तु अयं सामान्य अनुभवं अस्ति यत् अस्मिन् संसारे कोपि घटना आवां द्रवीभूतं न करोति। केनापि घटनातः आवयोः प्राणाः देहं न त्यजन्ति। अस्य किं कारणम्। वैदिक साहित्यानुसारेण (काशिका 6.2.164, शतपथ ब्राह्मण 9.5.1.9) अस्य कारणमस्ति यत् भूमि एवं द्यौः परस्पर मिलिताः न सन्ति। तेषां मध्ये अन्तरिक्षः बाधा भवति। अयं अन्तरिक्षः भावनायाः प्रेषणे बाधा भवति। अतः अस्मिन् स्थितौ वयं परा-पश्यन्ति। यदा द्यौ एवं भूमिः मिलिताः भवन्ति, तदा वयं नेदीयसः परापश्यन्ति। -

स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स एकं स्तनमुपैति तदधिगच्छति न त्वभिपत्तुं शक्नोति स उपवसथेऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् – मा.श. ९.५.१.[९]

द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय । । - काशिकावृत्तिः 6.1

पशूनां प्रवृत्तिः चतुर्दिक् भ्रमणस्य भवति। अतः चतुःस्तनाः। मनुष्याणां प्रवृत्ति ऊर्ध्वाधोमुखी भवति। अतः द्विस्तनाः।

सोमयागस्य आरम्भे प्रवर्ग्य – उपसद इष्टयः भवन्ति। तत्र आरम्भिक उपसद इष्टिषु यजमानः चतुःस्तन व्रतं धारयति, तत्पश्चात् त्रिस्तनं, तत्पश्चात् द्वौ, तदा एकम्, तदा नैकमपि। अर्थात् सः केवल गवां दुग्धोपरि  एव स्वनिर्वाहं करोति, तदोपरि तमपि त्याजयति। अयं कृत्यः केवल प्रतीकमस्ति। वास्तविक रूपेण अयं घटना प्रति संवेदशनशीलस्य प्रतीकमस्ति, इति प्रतीयते। कालक्रमेण वयं भक्तानां कथामाध्यमेन शृण्वामः यत् यदा कोपि पशु उपरि प्रहारं करोति, तस्य प्रभावः भक्तोपरि अपि तत्काल दर्शनीयं भवति। अतः त्रिस्तना शब्दस्य अर्थं प्रतीयते – यस्य घटनाभिः द्रवणशक्तिः कुंठितं अस्ति। तयाः साकं कः विवाहं करोति – यः अन्धः अस्ति। संसारे घटनां वास्तविकरूपेण न दृष्ट्वा मायामय रूपेण एव दृष्टुं समर्थः व्यक्ति अन्धः भवति। अस्य अन्धस्य कः सहायकः अस्ति – कुब्जः। विशाल, विस्तृत संसारे सीमित दर्शन सामर्थ्यः कुब्जत्वमस्ति। वामन – बलि कथायां वामनस्य संज्ञा अपि कुब्जः अस्ति। त्रिस्तनाया कन्यायाः अन्धेन सह कोपि प्रयोजनं सिद्धं न भवति। अतः सा कुब्जेन साकं एव रमयतुं इच्छति। यदा अन्धः मत्स्यं खादितुं इच्छति, ते मत्स्य स्थाने सर्पं आरोपयन्ति एवं सर्पस्य पाक  हेतु अन्धं नियुज्यन्ते। डा. फतहसिंह अनुसारेण मत्स्यः विज्ञानमय कोशस्य शक्तिरस्ति। सा यदा मनोमय कोशमध्येपि कदाचित् अवतरति, तदा मत्स्यः संज्ञा धारयते। शकुनभवनम् अयं मत्स्यरूप शक्तेः परिणाममेव। किन्तु अन्धः मत्स्यमपि न प्राप्नोति। तस्य नियोजनं सर्पस्य पाके भवति। सर्पः विषं निगरति। सर्पविद्या निर्ऋति दिशायां अन्तर्गतं भवति। निर्ऋति अर्थात् पापस्य देवता। कथं कोपि पापः न्यूनतम हानिकारकं भवेत्, अयं निर्ऋति देवतायाः कार्यमस्ति। अयं अपेक्षितमस्ति यत् अस्मासु देहे वर्तमान सर्पाः सर्वमपि विषम् पीत्वा आवां निर्विषाः कुर्वंतु। यदा अयं सिद्धं भवति, अन्धः स्वचक्षूंषि प्राप्नोति। यदा स चक्षूंषि प्राप्नोति, तदा सः कुब्जं स्वशिरोपरि भ्रामयति। एवं तं कुब्जं त्रिस्तनायाः हृदयोपरि प्रक्षिपति। तेन त्रिस्तनायाः तृतीयं स्तनं अदृश्यं भूत्वा तस्याः उदरे विलीनो भवति। कुब्जं स्वशिरोपरि भ्रमणं -  यत्किंचित् वयं कुब्ज स्थितित्वात् सीमित दर्शनशक्तित्वात् अनुमानं कुर्वामः, तम् शिर द्वारा चिन्तनकरणस्य प्रतीकं भवति। अस्य निर्णयं त्रिस्तनायाः हृदये प्रक्षेपणीयम्। केवल मस्तिष्क द्वारा चिन्तनम् पर्याप्तं न भवति, हृदयोपरि अपि अस्य प्रभावं घटनं अपेक्षितमस्ति। तदा त्रिस्तनस्य प्रकृतिः तिरोहितं भवति।

 

पुराणेषु त्रिस्तनी कन्यायाः कथा केवल स्कन्दपुराणे 6.199.118 एव प्राप्यते।

,०८३.०७  अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।

,०८३.०७ दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥

,०७२.०६  अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः ।

,०७२.०६ समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥

,०८६.०९  दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः ।

,०८६.०९ इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥

१०,०४५.०४  अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।

१०,०४५.०४ सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥

१०,०६७.०५  विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।

१०,०६७.०५ बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥

१०,०७५.०३ अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥

१०,०७५.०४  अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः

 

स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स एकं स्तनमुपैति तदधिगच्छति न त्वभिपत्तुं शक्नोति स उपवसथेऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् – मा.श. ९.५.१.[९]

 त्रीणि चतुस्तनानि व्रतानि  ।  त्रीणि त्रिस्तनानि  ।  त्रीणि द्विस्तनानि  ।  एकमेकस्तनम्  १०आपराह्णिकीभ्यां प्रचर्य श्वेतमश्वं परिणीय वसन्ति वसन्ति  ११ – आप.श्रौ.सू. 16.35

मासानेकैकेनोपसन्मन्त्रेण जुहोति  ४

अनूपसदमग्निं चिनोति  ५

द्वौद्वौ मासावेकैका चितिः  ।  चतुर उत्तमा  ६

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्रींस्त्रीन्मासान्व्रतानि  ७ आप.श्रौ.17.26

अनूपसदमग्निं चिनोति  ११

द्व्यहंद्व्यहमेकैका चितिः  १२

चतुरहमुत्तमा  १३

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्र्यहं त्र्यहं व्रतानि  १४

य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं स्रुवमुन्नीय नापरमुन्नयेत  १५. – आप. श्रौ.सू. 21.4

अनूपसदमग्निं चिनोति  ४

द्वौद्वौ मासावेकैका चितिः  ।  चतुर उत्तमा  ५

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्रींस्त्रीन्मासान्व्रतानि  ६

संवत्सरं प्रसुताः  ७ – आप.श्रौ.सू. 23.11

 अथातः क्रयस्यैवोपवसथः पर्याप्लवते

स उपकल्पयते चन्द्रं  च छागां च कृष्णबलक्ष्यावूर्णास्तुके उष्णीषं द्वे वाससी द्वे कृष्णाजिने सोमक्रयणीँ  सैषारुणा पिङ्गलैकहायनी भवति सोमवाहनावनड्वाहौ सोमवाहनमनः प्रक्षालितमुद्धृतफलकँ  रोहितं चर्मानडुहं द्वयमिध्माबर्हिः कार्ष्मर्यमयान्परिधीनाश्ववालं प्रस्तरमैक्षवी विधृती स्थालीं पद्धरणीमँ  शुग्रहणँ  हिरण्यमौदुम्बरीँ  राजासन्दीं तस्यै नाभिदघ्नाः पादा भवन्त्यरत्निमात्राणि शीर्षाण्यनूच्यानि

सा मौञ्जीभी रज्जुभिर्व्यूता भवत्येकसराभिर्मनाग्वर्षीयसीमिव सम्राडासन्दीं यदि प्रवर्ग्यवान्सोमो भवत्यथाध्वर्युरपररात्र आद्रुत्य सँ शास्ति त्रिस्तनव्रतं दोहयतेति – बौ.श्रौ.सू. 6.10

सव्ये पाणौ प्रस्तरँ  समावृत्याज्यस्थाल्याः स्रुवेणोपहत्य प्रथमामुपसदं जुहोति या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीम्त्वेषं वचो अपावधीँ  स्वाहेति

परिधिषु शकलानुपसंगृह्णाति प्रस्तरे बर्हिर्यावन्मात्रँ  स्पन्द्यया विग्रथ्याहवनीयेऽतिवाल्याद्भिरभ्युक्ष्योत्तरतः सादयत्य्

अथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छत्यथापराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति

तयोः समानी चर्यैतावदेव नाना

सव्योत्तरिणो निह्नुवतेऽथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं दोहयति

तदर्धरात्रे प्रयच्छति   6.२१

तच्चात्वालस्यावृता चात्वालं परिलिखत्युत्तरवेदेरावृतोत्तरवेदिं निवपत्युत्तरनाभिमुत्साद्याथैनां प्रतिच्छाद्यापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय द्विस्तनव्रतं दोहयतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां द्विस्तनव्रतं दोहयति

तदर्धरात्रे प्रयच्छति   6.२३

6.24

अथाध्वर्युरपररात्र आद्रुत्य सँ शास्त्येकस्तनव्रतं दोहयतेति

प्रातरुदित आदित्ये विसृष्टायां वाच्युत्तमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरति

हराशयामत्र जुहोत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वयार्धस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्याम्

अर्धस्तनव्रतं प्रयच्छत्यथ तदानीमेवापराह्णिकी प्रवर्ग्योपसदौ समस्योपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः प्रवर्ग्यस्यावृता प्रवग्यँ र्! सँ सादयोद्वासनायेति 6.24

 अथ महावेदिं विमिमीत एतानेव ज्यायसः प्रक्रमान्प्रक्रम्याक्ष्णया मानेन प्रमाय समन्तँ  स्पन्द्यया परितनोति

पृष्ठ्यामातनोत्यथैतमग्निं प्रत्यञ्चं यूपावटीयाच्छङ्कोर्विमिमीते पुरुषमात्रेण वेणुना समपक्षपुच्छम्

अरत्निना पक्षौ द्राघीयाँसौ भवतः

षड्विधं वा सप्तविधं वा द्वादशविधं वा यावद्विधं वा चेष्यमाणो भवत्यथैनमक्ष्णया मानेन प्रमाय समन्तँ  स्पन्द्यया परितनोत्य्

अनुस्पन्द्यं लेखां लिखत्यपोद्धृत्य स्पन्द्यां कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्त्येतावदेवैतदहः कर्म क्रियते

वसन्त्येताँ  रात्रिम्

अथाध्वर्युरपररात्र आद्रुत्य सँ शास्ति त्रिस्तनव्रतं दोहयतेत्यथैतमग्निँ  सते समुप्य दक्षिणतो ज्वलयन्त आसतेऽथैतदग्न्यायतनँ  शकृत्पिण्डेन परिलेपयति

तस्मिँ श्चतस्रः प्राचीरिष्टका आयातयति द्वे पुरस्तात्समीची द्वे पश्चात्समीची

अथैनं प्रदक्षिणं त्रयोदशभिरिष्टकाभिः परिचिनोत्यन्विष्टकं लेखां लिखत्यपोद्धृत्येष्टकाः कर्षूः खानयन्त्युच्छ्रयन्त्यपस्या दक्षिणतश्च पश्चाच्च वर्षीयसीः कुर्वन्ति   १९  10.19

 प्रायणीयेन चरित्वा पदेन चरति

पदेन चरित्वा राजानं क्रीत्वोह्यातिथ्यं निर्वपत्यातिथ्येन प्रचर्य प्रथमाभ्यां प्रवर्ग्योपसद्भ्यां प्रचरत्यथोपनिष्क्रम्य संप्रैषमाह सुब्रह्मण्य सुब्रह्मण्यामाह्वय त्रिस्तनव्रतं प्रयच्छतेत्याह्वयति सुब्रह्मण्यः सुब्रह्मण्यां त्रिस्तनव्रतं प्रयच्छति

स पुच्छादेवाग्रे चतुरः प्रतीचः प्रक्रमान्प्रक्रामति दक्षिणा पञ्चमं तत्स्फ्यं निदधाति

स उपरवाणां कालोऽथ महावेद्या उत्तरादँ  सीयाच्छङ्कोर्वेद्यन्तेन द्वादश प्रतीचः प्रक्रमान्प्रक्रामत्युदञ्चं त्रयोदशं तदाग्नीध्र उपसीदति – बौधायन श्रौत सूत्र 10.23

18.32

ऋतपेयेन यक्ष्यमाणो भवति

स यदशनानां कामयते तस्याशितो भूत्वा दीक्षते यद्वा लभते तस्य

स एकाहं नाश्नात्यथाश्नाति

द्व्यहं नाश्नात्यथाश्नाति

त्र्यहं नाश्नात्यथाश्नाति

सोऽत्रैव विराजमाप्नोति

राजानं क्रीत्वोह्यातिथ्यं निर्वपति

यद्यु वा एतदुपात्येति चतुरहं नाश्नात्यथाश्नाति

पञ्चाहं नाश्नात्यथाश्नाति

षडहं नाश्नात्यथाश्नाति

तिस्र उपसदस्

त्रिँशत्संपद्यन्ते

त्रिँशदक्षरा विराडन्नं विराड्विराजैवान्नाद्यमवरुन्द्धेऽथ य एकादश स्तन एवास्यै स

दुह एवैनां तेनाथ य एकत्रिँश स्तन एवास्यै स

दुह एवैनां तेन

स उपसत्स्वाज्यव्रतो भवति

शीतस्य सर्पिषस्तिसृभिरङ्गुलीभिरुपहन्त्यथ द्वाभ्यामथैकया

शीतस्य वैव सर्पिषस्त्रिभिः पर्वभिरुपहन्त्यथ द्वाभ्यामथैकेन

विलीने वा सर्पिषि त्रीणि परूँष्यवदधात्यथ द्वे अथैकं त्रिस्तनद्विस्तनैकस्तनव्रतस्य रूपाणि कुर्वन्

स नादित्याद्दिवा पर्यावर्तते नाग्नेरधि नक्तम्

औदुम्बरः सोमचमसश्चतुःस्रक्तिर्ब्रह्मा त्रिवेदः सगोत्रः  ३२

26.32

अथास्याँ  सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियामवभृथप्रभृत्यस्तमिते यज्ञपुच्छं तासां प्रथमैव सरथा प्रथमा चित्ससोमक्रयणी प्रथमाग्निहोत्रोच्छेषणव्रताथास्याँ  सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियां त्रिस्तनद्विस्तनैकस्तनव्रतस्य रूपाणि कुर्वन्ति

चतुःस्तने प्रथमेऽहनि त्रिस्तनद्विस्तने  मध्यम एकस्तन उत्तमे  ४९  उपसद्वृद्धौ स्तनव्यूहौ विवर्धयेतौपसदाँश्च होमान्  ५० – मानव श्रौत सूत्र 2.2.1

अथ श्वोभूते परिवृत्ताया गृहेषु कृष्णानां व्रीहीणां नैर्ऋतं चरुं निर्वपति या वा असूरपतिः सा परिवृत्ता स नखैरेव निर्भिद्य श्रपयित्वा जुहोति एष ते निर्ऋते भाग इति तं जुषस्व स्वाहेति निर्ऋतिमेवैतेन शमयति तथैनं सूयमानं निर्ऋति पाप्मा न विन्दति स यत्परिवृत्ताया गृहेषु सा हि निर्ऋतिगृहीता तस्य दक्षिणा कृष्णा गौः पर्यायिणी परिमूर्णा त्रिस्तना चरति सा हि निर्ऋतिगृहीताथाह  मा मे अद्येशायां वात्सीदिति तां सर्वस्या ईशाया बाधते पाप्मानमेवैतदपहते सो अपहतपाप्मा सूयते। - काण्व शतपथ7.1.4.14

 सप्तमे प्रपाठके बृहदारण्यकोपनिषदि पञ्चमे प्रपाठके                                                          

द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय । । - काशिकावृत्तिः 6.2.164

 

अन्धक-कुब्जक-त्रिस्तनी कथा

 

मनुष्य द्विस्तन होते हैं, पशु चतुःस्तन। कोई भी प्राणी त्रिस्तन वाला नहींहोता। स्तन शब्द का अर्थ है – स्तनयन्, अभ्रों या बादलों का गर्जन। जब अभ्र गरजते हैं तो विद्युत् भी चमकती है, तभी वृष्टि होती है। जब प्राणियों के हृदय में प्रेम उपजता है, तब स्तनों से स्वयमेव पयः का स्रवण होता है। यह घटना बादलों से वर्षा का रूप ही है। किन्तु यहां कोई शब्द नहीं होता। मनुष्यों में स्तनयित्नु का अर्थ होगा – करुणापूर्ण हृदय से हृदय का शोकाकुल होना। किन्तु यह सामान्य अनुभव है कि इस संसार में कोई भी घटना हमें द्रवीभूत नहीं करती। किसी भी घटना से हमारे प्राण हमारी देह को नहीं त्यागते। इसका क्या कारण है। वैदिक साहित्य के अनुसार (काशिका 6.2.164, शतपथ ब्राह्मण 9.5.1.9) यह है कि भूमि और द्यौ परस्पर मिले हुए नहीं हैं। उनके मध्य अन्तरिक्ष बाधा बनता है। यह अन्तरिक्ष भावनाओं के प्रेषण में बाधा बनता है। अतः इस स्थिति में हम परा-पश्यन् करते हैं। जब द्यौ व भूमि मिल जाती हैं तो हम निकट से परा-पश्यन करते हैं –

स त्रीन्त्स्तनानुपैति । तत्परापश्यति स द्वौ स्तना उपैति तन्नेदीयसः परापश्यति स एकं स्तनमुपैति तदधिगच्छति न त्वभिपत्तुं शक्नोति स उपवसथेऽनाशकमुपैत्येतद्वै सर्वं तपो यदनाशकस्तस्मादुपवसथे नाश्नीयात् – मा.श. ९.५.१.[९]

द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय । । - काशिकावृत्तिः 6.2.164

पशुओं की प्रवृत्ति चतुर्दिक् भ्रमण की होती है। अतः वे चतुःस्तन होते हैं। मनुष्यों की प्रवृत्ति ऊर्ध्व – अधोमुखी होती है, अतः वे द्विस्तन होते हैं।

     सोमयाग के आरम्भ में प्रवर्ग्य – उपसद इष्टियां होती हैं। वहां आरम्भिक उपसद इष्टियों में यजमान चतुःस्तन व्रत धारण करता है, तत्पश्चात् त्रिस्तन, तत्पश्चात् द्विस्तन, तत्पश्चात् एकस्तन, तत्पश्चात् एक भी नहीं। अर्थात् वह केवल गौदुग्ध के ऊपर ही अपना निर्वाह करता है, फिर उसका भी त्याग कर देता है। यह कृत्य केवल प्रतीक मात्र है। वास्तविक रूप में यह घटना के प्रति संवेदनशीलता का प्रतीक है, ऐसा प्रतीत होता है। कालक्रम से हमें भक्तों की कथाएं सुनने को मिलती हैं कि यदि कोई पशु के ऊपर प्रहार करता है, उसका प्रभाव भक्त के ऊपर भी तत्काल दिखाई देता है। अतः त्रिस्तना शब्द का अर्थ यह प्रतीत होता है – जिसकी घटनाओं द्वारा द्रवणशक्ति कुंठित है। उसके साथ कौई विवाह करता है – जो अन्धा है। संसार में घटना का वास्तविक रूप न देखकर जो मायामय रूप ही देखने में समर्थ है,वह अन्धा है। इस अन्धे का सहायक कौन है – कुबडा। विशाल, विस्तृत संसार में सीमित दर्शन की सामर्थ्य कुब्जत्व है। वामन – बलि की कथा में वामन की संज्ञा भी कुबडा है। त्रिस्तन कन्या के साथ अन्धे का कोई भी प्रयोजन सिद्ध नहीं होता। अतः वह कुबडे के साथ रमण की इच्छा करती है। जब अन्धा मत्स्य खाने की इच्छा करता है, तब वे मत्स्य के स्थान पर सर्प रख देते हैं और सर्प के पाक हेतु अन्धे का नियोजन कर देते हैं। डा. फतहसिंह के अनुसार मत्स्य विज्ञानमय कोश की शक्ति है। जब वह शक्ति मनोमय कोश में कभी – कभी अवतरित होती है, तब उसकी मत्स्य संज्ञा होती है। शकुन होना भी इसी मत्स्यरूपा शक्ति का परिणाम है। किन्तु अन्ध को मत्स्य भी नहीं मिल पाता। उसका नियोजन सर्प के पाक के लिए होता है। सर्प विष निगलता है। सर्पविद्या निर्ऋति दिशा के अन्तर्गत होती है। निर्ऋति अर्थात् पाप का देवता। किस प्रकार पाप न्यूनतम हानिकारक हो, यह निर्ऋति देवता का कार्य है। यह अपेक्षित है कि हमारी देह में वर्तमान सर्प सारा विष पीकर हमें निर्विष करते रहें। जब यह सिद्ध हो जाता है, तब अन्धा अपने चक्षु प्राप्त कर लेता है। जब वह चक्षु प्राप्त कर लेता है, तब वह कुबडे को अपने शिर के ऊपर घुमाता है। तथा उस कुबडे को त्रिस्तना के हृदय के ऊपर फेंकता है। इससे त्रिस्तना का तृतीय स्तन अदृश्य होकर उसके उदर में विलीन हो जाता है। कुबडे को अपने सिर के ऊपर घुमाना – अर्थात् हम कुब्ज स्थिति द्वारा, सीमित दर्शन की शक्ति द्वारा जो कुछ अनुमान करते हैं, उसका सिर द्वारा चिन्तन करना है। उस निर्णय को त्रिस्तना के हृदय के ऊपर फेंकना है। केवल मस्तिष्क द्वारा चिन्तन पर्याप्त नहीं है। हृदय के ऊपर भी उसका प्रभाव घटित होना चाहिए। तब त्रिस्तन की प्रकृति तिरोहित हो जाती है।

पुराणों में त्रिस्तनी कन्या की कथा केवल स्कन्द पुराण 6.199.118 में ही प्राप्त होती है।

प्रथम प्रकाशन -  फाल्गुन कृष्ण चतुर्थी, विक्रम संवत् २०७२( २७-२-२०१६ई.)