पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Tunnavaaya to Daaruka ) Radha Gupta, Suman Agarwal & Vipin Kumar)
|
|
दधि दधिशब्दस्य निरुक्तिः दधाति इति अस्ति। अयं संकेतमस्ति यत् ब्रह्माण्डे या ऊर्जा अस्ति, तत् विकीर्णा, वाला अस्ति। यदा तस्याः संघननाय कस्यापि केन्द्रबिन्दोः सृजनं भवति, तत् दधिसंज्ञा धारयितुं शक्यते। गरुडपुराणे २.३२.११६ उल्लेखमस्ति यत् शोणिते दधिसागरः विद्यमानः अस्ति। यथा आधुनिकविज्ञानतः ज्ञातमस्ति, देहकोशिकानां मध्ये यः द्रवः अस्ति, तस्मिन् द्रवे फैरिटिनसंज्ञकस्य प्रोटीनस्य विद्यमानता अस्ति। फैरिटिनप्रोटीनस्य संरचना एवं प्रकारेण अस्ति यत् प्रोटीनअणु मध्ये लौहपरमाणुः स्थितः अस्ति। अयं लौहपरमाणुः देहमध्ये आक्सीजनस्य वितरणं करोति। अतएव, शोणिते यः दधिः अस्ति, तत् फैरिटिनप्रोटीनः भवितुं शक्यते। यस्मिन् द्रवे प्रोटीनमध्ये लौहकणस्य विद्यमानता नास्ति, तस्य संज्ञा अपोफैरिटिन इति अस्ति। दध्नः रूपं स्तरे – स्तरे परिवर्तितः भवति। अग्निपुराणे ११९.१२ दधिमुख्याः विप्राः ब्रह्मणः यजनं कुर्वन्ति। गर्गसंहितायां २.२२.१७ हंसमुनिः दधिमण्डोद समुद्रे तपः करोति। वाल्मीकिरामायणे ५.६१.९ दधिमुख वानरस्य कथा अस्ति यः मधुवनस्य रक्षकः अस्ति। पुराणेषु एवं ब्राह्मणग्रन्थेषु दधि एवं मधोः उल्लेखौ सकृदेव भवतः। यदि दध्नः स्थितिः शोणिते अस्ति, तर्हि मुखे दध्नः स्थितिः केन प्रकारेण भवितुं शक्यते। अयं संभवमस्ति यत् यः लालास्रावः अस्ति, यः सामान्यरूपेण केन्द्रबिन्दु संरचनातः मुक्तः अस्ति, तत् केन्द्रीयसंरचया युक्तः भवेत्। गरुडपुराणे २.३२.११६ कथनमस्ति यत् - नादचक्रे स्थितः सूर्यो बिन्दुचक्रे च चन्द्रमाः। अत्र एवं तन्त्रशास्त्रे सार्वत्रिकरूपेण वर्णनमस्ति यत् यदा जिह्वा लम्बिनी भवति, तदा सा कपालतः क्षरितस्य मधोः आस्वादनं करोति। सोमयागे तृतीयसवने आहुतिदानाय न कोपि सोमरसः शिष्टं भवति। अतएव, सोमलतायाः ऋजीषसंज्ञकः यः तृणशेषः भवति, तस्मिन् मथितस्य दध्नः मिश्रणं कुर्वन्ति एवं तस्य द्रवस्य उपयोगं देवमनुष्यस्तराणां देवानां तृप्त्यर्थं कुर्वन्ति। Remarks on Dadhikraavaa by Dr. Fatah Singh आनन्दमय कोश के आनन्द को पय: या दुग्ध कहते हैं। जब इस पय: या आनन्द का विज्ञानमय कोश में अवतरण होता है तो यह विकृत होकर दधि बन जाता है । वहां जो जीवात्मा इस दधि को धारण करता है उसे दध्यङ्ग कहते हैं। जब यह जीवात्मा विज्ञानमय से निचले - मनोमय, प्राणमय और अन्नमय स्तरों पर दधि रूपी आनन्द बिखेरता है तो वह दधिक्रावा अश्व कहलाता है । दध्यङ्ग ही पुराणों का दधीचि ऋषि है । वह जीवात्मा जो दधिक्रा - दधि से युक्त है, उसकी अस्थियों से वज्र बनता है । अस्थि अर्थात् अस्ति । वज्र: - वर्जनात्, अर्थात् जो अहंकार की वर्जना करता है ।
संदर्भाः १. अथ यदनडुह्यै वहलायाऽ ऐन्द्रं दधि भवति स इन्द्रस्य चतुर्थो भागः । माश ५,२,४,१३ । २. अथ यदि दधि (आहरेत् ) वैश्यानां स भक्षः । ऐ ७,२९ । ३. अन्नं (+वै [काठ., क.]) दधि । मै ३,२,६; काठ २०, ५; क ३१,७। ४. अपामेष रसो यद्दधि । काठ २९,५। ५. इन्द्रियं वा एतदस्मिन् लोके यद्दधि । ऐ ८,२० (तु. तै २,१,५,६)। ६. एतद्रूपा वै पशवो यद्दधि । काठ ११, २ । ७. ऐन्द्रं दध्यमावास्यायां तेनामावास्या सेन्द्रा । तैसं २,५,४,१। ८. यज् जीवन्तं कूर्मम् उपदधाति तेनाश्मशानचित् । वास्तव्यो वा एष यत् कूर्मः । मधु वाता ऋतायत इति दध्ना मधुमिश्रेणाभ्य् अनक्ति स्वदयत्य् एवैनम् ।ग्राम्यं वा एतदन्नं यद्दध्यारण्यं मधु, यद्दध्ना मधुमिश्रेणाभ्यनक्त्युभयस्यावरुद्ध्यै । तैसं ५.२.८.६ ९. इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् । सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम्। तैसं २,५,३,४ १०. तं (कूर्मं) अभ्यनक्ति । दध्ना मधुना घृतेन दधि हैवास्य लोकस्य रूपं घृतमन्तरिक्षस्य मध्वमुष्य।....दधि हैवास्य लोकस्य रसो घृतमन्तरिक्षस्य मध्वमुष्य- माश ७,५,१,३ । ११. दध्नातनक्ति सेन्द्रत्वाय । तैसं २,५,३, ५-६ । १२. दध्ना मधुमिश्रेणावोक्षति दध्नैव हुतादः (देवान्) प्रीणाति, मधुषाऽहुतादः ( देवान् )। ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु यद् दध्ना मधुमिश्रेणावोक्षत्य् उभयस्यावरुद्ध्यै। तैसं ५,४,५,२। १३. आज्यस्य पूर्णां कार्ष्मर्यमयीं दध्नः पूर्णाम् औदुम्बरीम् इयं वै कार्ष्मर्यमय्य् असाव् औदुम्बरी । पशवो वै दध्य् ऊर्ग् उदुम्बरः पशुष्व् एवोर्जं दधाति। तैसं ५,२,७, ४, काठ २८,६; क ४४,६ । १४. महेन्द्रीयं (मृदु काठ ३७,३]) दधि । काठ १५,१,३७,३ । १५ मेधो वा एष पशूनामूर्ग् दधि । काठ २०, ७ । १६. यदब्रवीद्धिनोति मेति (इन्द्रः) तस्माद्दधि । माश १,६, ४,८ । १७. वहन्त्यस्मै मधुक्षीरघृतं दधि । लु ९७ । १८. वाजिनं त्वां (दधिद्रव्यम् ) वाजिनो ऽवनयामः । ऊर्ध्वं मनः सुवर्गम् । तैआ ४,१२,१। १९. इन्द्रस्य पुरोडाशः । हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या। माश ४, २, ५, २२ । २०. सोमो वै (हि !काठ.]) दधि । काठ ३०,५; कौ ८,९ ॥ अपामेष ओषधीनाँ रसो यद्दधि। क ४५.६ यदाग्नेयो ऽष्टाकपालोऽमावास्यायां भवत्यैन्द्रं दधि, देवताश्चैव तेनेन्द्रियं च यजमानोऽवरुन्धे। - तैसं २.५.३.२ यद्दधि तेनाऽऽमावास्यम् – जै २.३८ ऊर्ग्वा अन्नाद्यं दधि। - तै २.७.२.२, तैआ ५.९.७। अथौदुम्बरीमुत्तरत उपदधाति । इन्द्रस्य त्वौजसा सादयामीति यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत्तदस्मिन्नेतत्प्रतिदधाति...... दध्ना पूर्णा भवत्यैन्द्रं वै दधि– माश ७.४.१.४२ ऐन्द्रं दधि - मै १.१०.७, २.६.३ राजसूयः -- आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा । – तैसं १.८.१.२ पृषदाज्यम्-- विष्णुस् त्वाऽनु वि चक्रमे भूतिर्दध्ना घृतेन वर्धताम् – तैसं ३.२.६.१, मै ४.८.९ दधि तृतीयसवने (अवनयेत्) – जै १.३५५ तस्य प्रतिधुक् प्रातस्सवने वानयत्।......श्रितं माध्यंदिने सवने, श्रेष्ठेव वा अनेनेति तस्माच् छ्रितम्। दधि तृतीयसवने ऽधायीव वा अनेनेति तस्माद् दधि। - जै २.१५७ दध्नेन्द्रियकामस्य (जुहुयात्) – आश्व.श्रौ.सू. ६.१५.१ दध्नो रूपं कर्कन्धूनि – वा.सं १९.२३ तद् वै तद् अग्निहोत्रं त्र्यहम् दध्ना जुहुयात्। तद् वै वाजपेयस्य रूपम्। - जै १.३८ दधि-ग्रह १. ज्येष्ठो वा एष ( दधिग्रहः ) ग्रहाणाम् । तैसं ३, ५, ९, १। २. दधिग्रहं गृह्णीयात् पशुकामस्य । तैसं ३, ५,९, ३ । ३. सर्वासां वा एतद्देवतानाँ रूपं यदेष (दधि-) ग्रहः । तैसं ३, ५,९, १ । दधि-क्रा १. अन्नं वै दधिक्राः । गो २, ६, १६ । २. देवपवित्रं वै दधिक्राः (१) । ऐ ६, ३६ । दधिक्रावती- एषा वा अग्नेर्दधिक्रावती प्रियाः तनूः पशव्या सर्वसमृद्धा। - मै १.५.६ दधि-क्रावन्- दधिक्राव्णा एकादशकपालं ( पुरोडाशं निर्वपेत् )। मै २,१,३ । दधृषी- वाग्वै दधृषी । मै ४, २, ६ । दध्यञ्च्- १. आसीदेवेदमश्वशीर्षं येनाश्विभ्यां (दध्यङ्) देववेदं प्राब्रवीत् । जै ३, ६४ ।। २. इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव । तै १, ५, ८, १। ३. दध्यङ् वा आङ्गिरसो देवानां पुरोधानीय आसीत् । तां १२, ८, ६। ४. वाग्वै दध्यङ्ङाथर्वणः । माश ६, ४, २,३ । ५. स (इन्द्रः) ह तैरेव (दधीचः) अस्थिभिर्नवनवतीर्जघानासुराणाम् । जै ३,६५॥ अग्निरेव दध्यङ्ङाथर्वणः – तैसं ५.६.६.३ तमु त्वा (अग्ने) दध्यङ्ङृषिः पुत्र ईधे अथर्वणः – मै २.७.३
|