पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Tunnavaaya to Daaruka ) Radha Gupta, Suman Agarwal & Vipin Kumar)
|
|
दमनक किंचिदपि सुखं अस्मान् मादयितुं पर्याप्तं भवति। दमनक शब्दः संकेतं करोति यदयं मादनावस्था दमनीयः, यमनीयः। दमन हेतु के उपायाः भवन्ति। वेदानुसारेण दमस्य अनेकोपायानां मध्ये अग्निः एकः दमयिता अस्ति। अग्नि अर्थात् सुखस्य सारः। किंचिदपि सुखानुभवे अस्य मूलं किं भवति, इति शोचनीयः। द्वितीयोपाय रूपेण वेदमध्ये मार्जालीयः(5.1.8) उद्धृते। मार्जालीयः अर्थात् सुखानुभवस्य शोधनं संभवमस्ति। सामान्य सुखं वास्तविक सुखस्य छायामात्रमेव अस्ति। सोमयागे मार्जालीय खरस्थानम् उत्तरवेद्यां दक्षिण दिशायां भवति। तत्र पीतसोमपात्रस्य प्रक्षालनं भवति। तथा ऋत्विजाः यजमानस्य अंगानां प्रतिस्थापनं कारयन्ति। ये चक्षु आदि अंगाः पूर्वं सीमित शक्ति युक्ताः आसन, ते अथारभ्य असीमित शक्ति सम्पन्नाः भवन्ति। किं मार्जालीय एव सिंहः अस्ति, अयं भविष्ये अन्वेषणीयः। तृतीय रूपेण सवितृदेवस्य उल्लेखं दमयितृणां मध्ये भवति। सविता – यः किमपि कार्यस्य निष्पादनहेतु आवश्यक प्रेरणां ददाति। तदैव कार्यः सम्पन्नं भवति। दमनस्य सम्बन्धे एका स्थितिः उग्रा स्थितिः उल्लिखितं भवति(ऋ.6.47.16)। उग्र अर्थात् दुर्गुणानां हननाय दृढमतिः। क्रोधोपि उग्रः भवति। अस्य उग्रस्थितेः नियामकः को भवति, इति शोचनीयः। किं सिंहोपि उग्रस्थित्यानां एकः भवति, अयं शोचनीयः। उग्र स्थिति मध्ये आवयोः चिन्तनशक्तिः त्रुटितं भवति। चिन्तनशक्तिः पिंगलक सिंह कथायां दमनकः भवति। दमनक हेतु प्राज्ञः विशेषणं कथ्यते। अयं शृगालः सम्बोध्यते। शृगालः अर्थात् शृंगालः, शृंगरहितः। शृंग अर्थात् शान्तस्थित्यां वयं चिन्तनशक्तिरूप शृंगेण युक्ताः भवन्ति। पुराणेषु शृगालः अहंकारावस्था कथ्यते। पिंगलक – संजीवक कथा यमुना तटे घटयति। यमुना अर्थात् यम – नियमस्य नदी। करटकः कः भवति, न कथयितुं क्षमः। एकस्मिन् ऋचायाम्(10.41.3) आग्नीध्र ऋत्विजस्य दमूना विशेषणमस्ति। आग्नीध्र ऋत्विजस्य विशेषता बहिर्मुखी – अन्तर्मुखी प्रवृत्तिर्भवति। प्रजानां नियन्त्रण हेतु(7.9.2, 10.46.6) दमूना स्थिति अपेक्षितं भवति। प्रजा अर्थात् यत्किंचित् विचारः आवयोः अन्तरे प्रादुर्भवति, तस्य प्रवृत्ति बहिर्मुखी एव भवति। यदि वयं कस्यचित् अमित्रस्य विषये विचारं कुर्वामः, तर्हि ते विचारतरंगाः तं अमित्रं एव प्राप्नुवन्ति। पिंगलक सिंहस्य कथायामपि अस्य संकेतं विद्यते। ऋ. 3.5.4 मध्ये मित्र स्थितिः दमूना भवति। वेदे दमः शब्दस्य साधारण अर्थं गृहः भवति। अतः वैदिक निघण्टु मध्ये दमः शब्दः गृहनामसु पठितं अस्ति। दमेदमे सप्तरत्ना दधानो - -- -। दमूनाः पदनाम अस्ति। पंचतन्त्रस्य कथायाः दमूना शब्दस्य रहस्योद्घाटने किं योगदानमस्ति, अयं पुराणेषु उपलब्ध कथानाम् तुलना द्वारा स्पष्टं भवति।
उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु । दमूना गृहपतिर्दम आं अग्निर्भुवद्रयिपती रयीणाम् ॥१,०६०.०४ यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥१,१२३.०३ अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः । अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥१,१४०.१० अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् । रश्मींरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥१,१४१.११ अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् । रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥१,१७४.०३ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥३,००१.१७ मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् । रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥३,००२.१५ अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया । रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥३,००३.०६ मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः । मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥३,००५.०४ द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय । यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥३,००६.०३ अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः । मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥३,०३१.१६ महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय । त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥४,००४.११ मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः । सहस्रशृङ्गो वृषभस्तदोजा विश्वां अग्ने सहसा प्रास्यन्यान् ॥५,००१.०८ जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥५,००४.०५ त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत । पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥५,००८.०१ दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः । सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥५,०४२.१२ पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि । यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्या ववृत्स्वाजौ ॥६,०१९.०३ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥६,०४७.१६ उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् । अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥६,०७१.०४ स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः । होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥७,००९.०२ यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि । यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥८,०५०.१० अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् । विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥१०,०४१.०३ नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः । अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥१०,०४६.०६ अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः । श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥१०,०४६.०७ सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥१०,०९१.०१ सादद्योनिं दम आदीदिवाꣳ सम् । - तैब्रा. २.५.५.४ यदा वृत्रमतरच्छूर इन्द्रः । अथाभवद्दमिताभिक्रतूनाम् । - तैब्रा २.८.३.७ अग्निष्टुत् क्रतुः -- अस्याजरासो दमामरित्राः ।......अग्ने यक्षि स्वं दमम् । - तैब्रा. २.७.१२.१ तं त्वा वयं दम आ दीदिवाँसम् । उप ज्ञुबाधो नमसा सदेम । तैब्रा ३.६.१०.३
गोपामृतस्य दीदिविं वर्धमानं स्वे दम इति स्वं वै त इदं यन्मम – माश २.३.४.२९ अथ चतुर्गृहीतमाज्यं गृहीत्वा । समिधं प्रास्याभिजुहोत्यग्नेरनीकमप आविवेशापां नपात्प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहेति – माश ४.४.५.[१२]
शमो मित्रः सुदामा च सत्याक्रूरोद्धवो दमः । - कृष्णोपनिषत् १६
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति । दम्यत दत्त दयध्वमिति ।
|