पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Tunnavaaya to Daaruka ) Radha Gupta, Suman Agarwal & Vipin Kumar)
|
|
दामोदर स्कन्दपुराणस्य कार्तिकमासमाहात्म्ये २.४.३ कार्तिकमासे दामोदरस्य अर्चनस्य सार्वत्रिकनिर्देशः अस्ति। यथा लक्ष्मीनारायणसंहिता २.२६१.३० इत्यादि स्थलेषु दामोदरशब्दस्य निर्वचनं कृतमस्ति, उदरस्य दमनं दामोदरः अस्ति। उदरस्य दमनस्य किं तात्पर्यमस्ति। योगवासिष्ठे ३.७४.१५ कथनमस्ति यत् सूची स्वोदरस्य सौषिर्यस्य पिण्डीकरणं करोति येन तस्याः अशनानिवारणं भवति। अयं संकेतमस्ति यत् उदरस्य दमनस्य एका आवश्यकता अशनानिवारणे अस्ति। ब्राह्मणग्रन्थेषु उदरदमनस्य ये अन्ये उद्देश्याः उल्लिखिताः सन्ति, तेषां अभिप्रायाः अन्वेषणीयाः।
ब्रह्माण्डपुराणे ३.४.३४.८३ कथनमस्ति यत् पद्मनाभः (उदरस्य) अनुलोमवेष्टनं करोति, दामोदरः विलोमवेष्टनम्। नारदपुराणे १.६६.८९ उल्लेखमस्ति यत् पद्मनाभस्य शक्तिः श्रद्धा अस्ति, दामोदरस्य लज्जा। स्कन्दपुराणे ५.३.१४९.११ इषमासे पद्मनाभस्य एवं ऊर्जमासे दामोदरस्य अर्चनस्य निर्देशमस्ति। प्रश्नमस्ति – ऊर्ज/कार्तिकमासे दामोदरस्य अर्चनस्य निर्देशं केन कारणेन अस्ति। हविर्यज्ञेषु यः गार्हपत्य अग्निस्थलः भवति, तत् उदरस्थानिकः अस्ति। सोमयागे अस्य उदरस्थलस्य विकासः सदोमण्डपरूपे भवति। सदोमण्डपस्य या नाभिः भवति, तत्र औदुम्बरीसंज्ञकस्य दण्डस्य स्थापना कृता अस्ति, यस्याः परितः स्थित्वा सामवेदीय उद्गातृगणः सामगानं कुर्वन्ति। कथनमस्ति यत् या औदुम्बरी अस्ति, तत् सामगाने ये दोषाः भवन्ति, तेषां शोधनाय निर्देशं ददाति। एवंप्रकारेण, उदरस्य या नाभिः अस्ति, तत्र सतत् रूपेण सामगानस्य आवश्यकता अस्ति, श्रद्धास्थापनस्य आवश्यकता अस्ति। या अश्रद्धा अस्ति, यत्र सामगानं न प्रचलति, तस्य किं भेषजं अस्ति। तस्य भेषजं दामोदरे निहितमस्ति। कर्मकाण्डे उखासम्भरणे उखासंज्ञकस्य अग्निपात्रस्य स्थापनं उलूखलोपरि भवति। पुराणेषु उल्लेखमस्ति यत् वृष्णयः साम्बस्य उदरे मुसलं बद्ध्वा तं ऋषीणां समीपे आनयन्ति एवं ऋषिभ्यः पृच्छन्ति – अयं स्त्री किं जनिष्यति। ऋषयः कथयन्ति – अयं मुसलं जनयिष्यति। उदरस्य संदर्भे यः उलूखलं – मुसलं स्तः, तौ दोषाणां दमनं कुर्वतः। अथर्ववेदे ११.३.३ कथनमस्ति – चक्षुर्मुसलं काम उलूखलम्। उलूखलोपरि टिप्पणी पठनीयः अस्ति। कार्तिकमासस्य ऊर्जसंज्ञा संकेतं करोति यत् अयं नाभ्याः परितः स्थितिः अस्ति। कारणं – ब्राह्मणग्रन्थेषु कथनमस्ति यत् ऊर्ग् उदुम्बरः (द्र. उदुम्बरोपरि टिप्पणी)। |