पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

दर्भ

शरासः कुशरासो दर्भासः सैर्या उत ।
मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥ऋ. १.१९१.

अयं दर्भो विमन्युकः स्वाय चारणाय च ।
मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
अयं यो भूरिमूलः समुद्रमवतिष्ठति ।
दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥शौअ ६.४३.

अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः । - शौअ ८.७.२०

हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।
दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१०.४.१३

पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥११.८.१५

१. ओदनसवः -- अपां वा एतत्तेजो वर्चः यद्दर्भाः।यद्दर्भपुञ्जीलैः पवयति । अपामेवैनं तेजसा वर्चसाभिषिञ्चति तै , , ,

२. अपां वा एतदोषधीनां तेजो यद्दर्भा यद्दर्भपिञ्जूलैः प्रार्पयत्यपामेवैना ओषधीनां तेजसा प्रार्पयति। काठ ३०, १०; ३७, ; क ४६, ८ ।

३. आपो वै दर्भाः । रूपमेवैषामेतन्महिमानं व्याचष्टे ।। तै , , ,

वेदस्याग्रँ स्रुक्संमार्जनानि। .... अथो ऋग्वाव योषा । दर्भो वृषा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । - तैब्रा ३.३.२.२

पुनराधानम् - तं वै दर्भैरुद्धरति । दारुभिर्वै पूर्वमुद्धरति दारुभिः पूर्वं दारुभिरपरं जामि कुर्यात्समदं कुर्यादापो दर्भा आपो वर्षा ऋतून्प्राविशदद्भिरेवैनमेतदद्भ्यो निर्मिमीते तस्माद्दर्भैरुद्धरति - माश , , , ११

४. दर्भस्तम्बोपधानम् -- उभयम्वेतदन्नं यद्दर्भा आपश्च ह्येता ओषधयश्च या वै वृत्राद् बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्यद्दृभन्त्य उदायंस्तस्माद्दर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा यदु दर्भास्तेनौषधयः । माश , , ,

५. एतर्हि पाञ्चाला दर्भान् कुशा इत्येवाचक्षते । जै २,१०० ।

६. इन्द्रो वृत्रम् अहन् । सो ऽपो ऽभ्य्य् अम्रियत तासां यन् मेध्यं यज्ञिय सदेवम् आसीत् तद् अपोदक्रामत् ते दर्भा अभवन् यद् दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस् ताभिर् एवैनम् पवयति  तैसं ,,,

७. तूष्णीं हि हविरभिघारयन्ति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम्। माश ,,,;

सर्वत एवास्मिन्नेतद्रूपमुत्तमं दधाति दर्भैस्ते हि शुद्धा मेध्या अग्रैरग्रं हि देवानाम् -- माश ,,,१२

८.  दूर्वाणा स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठाऽनु विरोहतु इति । काशाना स्तम्बमाहर रक्षसामपहत्यै । .....दर्भाणा स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्मै मूलं जीवादनुकाण्डमथो फलम् । तैआ ,,

९. प्लेङ्खा -- तद्यदुभय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै, इति । दार्भ्यः स्युर्दर्भोवा ओषधीनामपहतपाप्मा तस्माद्दार्भ्यः स्युः, इति ।।। ऐआ ,,

१०. दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्येवैनम् । वाजं वा एषोऽवरुरुत्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यद्दर्भमयं परिधापयति
वाजस्यावरुद्ध्यै । । तै , ,,,

अश्वमेधः --  दर्भमयी रशना भवति । बहु वा एष कुचरोऽमेध्यमुपगच्छति । यदश्वः । पवित्रं वै दर्भाः यद्दर्भमयी रशणा भवति । पुनात्येवैनम् । - तैब्रा , ,, ;

अथैनं दर्भपवित्रेण पावयति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वै दर्भा मेध्यो भूत्वा दीक्षा इति पवित्रं वै दर्भाः पवित्रपूतो दीक्षा  - माश ,,, १८,

अमेध्यं यदवाचीनं नाभेर्मेध्या वै दर्भास्तद्यदेवास्या अमेध्यं तदेवास्या एतद्दर्भैर्मेध्यं कृत्वाथैनां प्राचीं यज्ञं प्रसादयति माश ,,, (तु. मै ३,,३) ॥

योऽब्राह्मणो विद्यामनूच्य नेव रोचेत से एताँश्चतुर्होतॄनरण्यं परैत्य दर्भस्तम्बमुद्ग्रथ्य ब्राह्मणं दक्षिणतो निषाद्य व्याचक्षीतैतद्वै देवानां ब्रह्मानिरुक्तं यच्चतुर्होतारस्तदेनं निरुच्यमानं प्रकाशं गमयति दर्भस्तम्बमुद्ग्रथ्य व्याचष्टेऽग्निर्वै दर्भस्तम्बोऽग्निमत्येव व्याचष्टे - काठ ९.१६

ग्निर्वा उत्सीदन्नप ओषधीरनूत्सीदत्याप एता ओषधयो यद्दर्भा यद्दर्भा उपोलपा भवन्त्यद्भ्य एवैनमोषधीभ्योऽध्यवरुन्द्धे - काठ ८.१५

यत्र दर्भा उपदीकसन्तताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्झावर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । - तैआ ५.१०.६

दर्भा वा आपा ओषधयो , यद् दर्भा उपोलपा भवन्ति , अद्भ्य एवैनं ओषधीभ्योऽध्याप्त्वावरुन्धे - मै १.७.२

दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्यायमधीयीतापां वा एष ओषधीनाम् रसो यद्दर्भाः सरसमेव ब्रह्म कुरुते-, इति ।तैआ २.११.१

न्द्रो वै वृत्रमप्स्व् अध्यहन् , तासां यद्यज्ञियं मेध्यमासीत्तदुदक्रामत्, ता इमा ओषधयोऽभवन् , तासां वा एतत्तेजो यद् दर्भा, एता वै शुष्का आपो , यदेवासांस्तेजस्तदवरुन्धे , त्रयीर्वा आपो, दिव्याः पार्थिवाः समुद्रिया, स्ताः सर्वा दर्भो विवस्थैत्, तस्माद् दर्भः पवित्रं - मै ३.६.३

न्द्रो वै वृत्रमहँस्तमप्स्वेवाध्यहँस्तासां या याज्ञिया मेध्या आसँस्ता उदक्रामँस्ता ओषधयोऽभवन् यत् तेजस्ते दर्भास्तस्मात् ते पवित्रं तस्माद्दर्भैरपः पुनन्ति यद्दर्भपिञ्जूलैः पावयति - काठ २३.१, क ३५.७.]

वाजपेयः --दर्भमयं वासो भवति पवित्रत्वाय, गौधूमं चषालं…. मै १,११,;

दर्भमयं वासो भवति पवित्रत्वायोज्जितीर्वाचयति वाग्वा उज्जित्यो - काठ १४,

सोऽरण्यं परेत्य । दर्भस्तम्बमुद्ग्रथ्य । ब्राह्मणं दक्षिणतो निषद्य । चतुर्हो-तॄन्व्याचक्षीत ।...अग्निवान् वै दर्भस्तम्बः । तैब्रा ,,,;

यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् । अग्निवान्वै दर्भस्तम्बः । अग्नावेवास्याग्निहोत्र हुतं भवति ।....यद्दर्भानध्यासीत । यामेवाग्नावाहुतिं जुहुयात् । तामध्यासीत । तस्माद्दर्भा नाध्यासितव्याः । यदि दर्भान्न विन्देत् । अप्सु होतव्यम् । - तैब्रा ,,,

प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ५ देवानां परिषूतमसीति दर्भान्परिषौति आप.श्रौ. १.३.

त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति आप.श्रौ.सू. १.६.

त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९ त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते आप.श्रौ १.६.१०

समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते आप.श्रौ. १.११.

इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रज्ञातं शाखापवित्रं निदधाति ६ तयैव शाखया दर्भैर्वा सायंदोहवत्प्रातर्दोहाय वत्सानपाकरोति आप.श्रौ. १.१४.

यदि ब्राह्मणं न विन्देद्दर्भस्तम्बे होतव्यम् ९ दर्भांस्तु नाध्यासीत १०यदि दर्भान्न विन्देदप्सु होतव्यम् आप.श्रौ. ९.३.११

यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेद्वृष्टिकामस्य आप.श्रौ. १५.१६.

अप्रस्तुते क्षत्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते ७ क्षत्रस्य योनिरसीति दर्भमयं पत्नी आप.श्रौ. १८.५.

यज्ञोपवीत्याचम्याक्लिन्नवासा दर्भाणां महदुपस्तीर्य प्राक्कूलानान्तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी सन्धाय पवित्रवन्तौ विज्ञायतेऽपां वा एष ओषधीनां रसो यद्दर्भाः सरसमेव तद्ब्रह्म करोति – आश्व.गृह्य.सू. ३.२.१