पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

 

तेजन- वज्रो वै तेजनम् । मै ४,,

तेजनी- पाप्मा वै तेजनी । तै ३, ,१९,

 

तेजस्

१. अग्ने यत्ते तपस्तेन तं प्रति तप यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते शोचिस्तेन तं प्रतिशोच यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते अर्चिस्तेन तं प्रत्यर्च यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते हरस्तेन तं प्रतिहर यो अस्मान् द्वेष्टि यं च वयं द्विष्मो , अग्ने यत्ते तेजस्तेन तं प्रतितितिग्धि यो अस्मान् द्वेष्टि यं च वयं द्विष्मो । मै , ,.

वैदिकनिघण्टु मध्ये एकादशाः ज्वलतो नामानि सन्ति। तेषां मध्ये अर्चिः, शोचिः, तपः, तेजः, हरः, घृणिः, शृङ्गाणि सन्ति।

२. अग्नेश्च त्वा ब्रह्मणश्च तेजसा जुहोमि तेजोदाम् , तेजो मा मा हासीत् , माहं तेजो हासिषं , स्वाहा । मै , , ।।

३. अपां यो द्रवणे रसस्तेनाहमिमं.....तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । काठ ३६,१५। ४. सौत्रामणी -- अश्विनोस्त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि । मै , ११, ।।

५. पयः क्वथनम् -- तेज उद्यतः वायुः । तैआ ,११, । ।

६. अग्निहोत्रम् -- तेज एव श्रद्धा सत्यमाज्यम्...... अथैतदहूयतैव सत्यं श्रद्धायामिति । माश ११, , , ।।

७. इन्द्राय घर्मवते सूर्यवता एकादशकपालं निर्वपेत्तेजस्काम, स्तेजो वै घर्मस्तेजः सूर्यस्तेज एवावरुन्द्धे। मै , ,; तैआ ५, , ; १०, ३ ।

८. तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूम्̇स् तृतीयसवन इति। ...... अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।  । । तैसं , , , ।।

९. तेजसे कं पूर्णमा इज्यते..... आयुषे कममावास्येज्यते । मै , , ; काठ ९, १३ । ।

१०. आज्येन जुहोति  तेजो वा आज्यं तेजो वसोर्धारा  तेजसैवास्मै तेजोऽवरुन्द्धे । । तैसं , ,,।।

११. तेजो वा ऽग्निष्टोमस्तेजो विषुवत् तेजसैव तत् तेजस् संदधति, तेजसा तेजो रोहन्ति। जै , ३८७ । ।

१२. तेजो वै त्रिणव स्तोमानाम् । जै २, २१९ । ।

१३. तेजो वै त्रिवृत् (पृष्ठानि [तैसं.J)। तैसं ५, , , ; मै ४, ,१०।।

१४. तेजो वै प्रातःसवनम् (यज्ञायज्ञीयम् [जै.J) । मै ४, , ; जै ३, २९० ।

१५. तेजो वै ब्रह्मवर्चसं ज्योतिरग्निष्टोमः । जै , ३१२। ।

१६. अथ यत्तप्ताभिर्मार्जयते शान्त्यै , अथो तेजो वै मदन्ती, स्तेज एवावरुन्धे  ॥ मै , ,१० ।।

अप्रतिषिक्तो वै घर्मस्तेजो ब्रह्मवर्चसं , तेजस्वी ब्रह्मवर्चसी भवति – मै १.८.३

१७. वज्रो वै यूपो , अन्नं यवो , यद्यवमतीभिः प्रोक्षति वज्रेण वा एतदन्नं जयति, तेजो वै यूप , एष खलु वा ओषधीनां तेजो यद्यव। मै , , (तु. काठ २६, ; क ४१, ३) ।

१८. देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै...... वायुरसि तिग्मतेजा इत्याह तेजो वै वायुः ( वेणुः तैआ.] )। तै , , , ; तैआ ५, , ;,२। ।

१९. तेजो वै शुक्रो ब्रह्मवर्चसम् । मै , , ; , ९।।

२०. तेजो वै हिरण्यम् । तैसं ५, , १०, ; मै १, ११, ; काठ ११, , , २१, ; तै १,, , १ । (तु, मै ३, , ; काठ २४,; तै ३, १२, ,१२) ।

२१. तेजोऽसि, तेजो मे यच्छ, पृथिवीं यच्छ । तैसं ५, , , १।।

२२. अथाज्यमवेक्षते ।....तेजोऽसि शुक्रमस्यमृतमसीति स एष सत्य एव मन्त्रस्तेजो ह्येतच्छुक्रं ह्येतदमृतं ह्येतत्। माश , , , २८ ।।

२३. त्रिवृदग्निष्टोमो (+ऽग्निष्टुदाग्नेयीषु तैसं ७,,,J) भवति । तेज एवावरुन्धे । तैसं ७,,, ,  ५,५।।

२४. नवरात्रो भवत्यभिपूर्वमेवास्मिन् तेजो दधाति । तैसं ७, , , ३ ।

२५. नवारत्निः कार्यस्तेजसा त्रिवृता संमितः । मै ३, , २।।

२६. पशवो वै तेजो ब्रह्मवर्चसम् । मै १, , ३ ।।

२७. बृहस्पतिर्वा एतद्यज्ञस्य तेजः समभरद्यत् स्तोमभागाः । तैसं ५, , ,५ ।। २८, ब्रह्मणा तेजसा सह तस्य दोहमशीमहि। तैआ ४, २१,१।।

२९. ब्रह्म तेजो मे पिन्वस्व । काठ ५, २ ।।

३०. प्रवर्ग्यब्राह्मण -- मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति । तैआ , , ।।

३१. वृत्रस्य हननम् -- यत्तेजस्ते दर्भास्तस्मात्ते पवित्रं तस्माद्दर्भैरपः पुनन्ति । काठ २३,; क ३५, ७ ।

३२. यन्नवकपालस्त्रिवृतैवास्मिन् ( यजमाने ) तेजो दधाति । तैसं २, ,, ३ ।। ३३. वसन्तेन ऋतुना ( वसन्तर्तुना [तै !) देवा वसवस्त्रिवृता स्तुतम् । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः । मै ३, ११, १२; तै २, , १९, १ ।

३४. समुद्रोऽसि तेजसि श्रितः, अपां प्रतिष्ठा । तै ३, ११,, ४। ।

३५. अग्निना तपोऽन्वाभवत् सूर्येण तेजः वायुना प्राणा..... । काठ ३५, १५; क ४८, १३ । ।

३६. हिरण्यं ब्रह्मणे ददाति तेजस्तेन परिक्रीणाति । काठ ३७, १ (तु. तैसं २, , ११, ५-६) ।

पूषा युनक्तु सविता युनक्तु बृहस्पतिर् वो युनक्तु । अग्नेस्तेजसा सूर्यस्य वर्चसा ॥ – मै २.७.१२, तैआ ६.३.३

अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्य्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु – तां १.३.५, १.७.३

सोमस्य त्वा द्युम्नेनाग्नेस्तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामि - मै २.६.११, ४.४.५

तेजसाऽग्निम् (आदित्योऽस्तं यन् प्रविशति)..... अथ यद् अङ्गारान् निरूहति येन तेजसाग्निं प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति – जै १.७

अमृतं वै हिरण्यम् , तेजोऽग्नि , रमृतेन वा एतत्तेजो व्याघारयति (ह्यग्निः – मै १.४.७) – मै ३.३.६

यदाग्नेय,स्तेजो वा अग्नि,स्तेज एवावरुन्द्धे , यत्सौम्यः , सोमो वै शुक्रो ब्रह्मवर्चसं , ब्रह्मवर्चसं एवावरुन्द्धे - मै १.६.८, ४.७.३, काठ १०.२, २२.१, तै ३.३.४.३, ९.५.२, माश २.५.४.८, ३.९.१.१९

वायवे नियुत्वते तूपरम् आ लभते तेजो ऽग्नेर् वायुस्      तेजस एष आ लभ्यते तस्माद् यद्रियङ् वायुः ॥     वाति तद्रियङ्ङ् अग्निर् दहति      स्वम् एव तत् तेजो ऽन्व् एति - तैसं ५.५.१.१

मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु – तैआ ४.४२.२

पृष्ठे पृथिव्यास्सीद, भासान्तरिक्षमापृण, ज्योतिषा दिवमुत्तभान, तेजसा दिश उद्दृंह – काठ १८.४

अप्सु तेजः (प्रतिष्ठितम्) – शांआ ६.२, कौउ ४.९

विराजो वै तेज आग्नेयः, शक्वरीणामैन्द्रो , रेवतीनां सौर्यो , यत्र पृष्ठानि युज्येरंस्तदेतान् जुहुयात् , साम्नां सतेजस्त्वाय – मै ४.७.३

यदाग्नेयस्तेजस्तेनावरुन्धे, यदैन्द्र इन्द्रियं तेन, यत्सौर्यो रुचं तेन, त्रिवृद्वावास्मा एतत् समृद्धं ब्रह्मवर्चसं दधाति – मै ४.७.३

तेजो वा अग्नि, रिन्द्रियमिन्द्रो, ब्रह्मवर्चसमसा आदित्य, स्तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयत इन्द्रियं परिगृह्णाति ॥ – मै ४.७.३

यदाग्नेयी तेजस्तयावरुन्द्धे – मै २.५.२

आज्येन संयौति .....प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा – तैसं ५.१.९.५

असौ वा आदित्यश्शुचिरेष तेजसः प्रदाता – काठ ८.८

उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य तेजो वा उत्तरवेदिः तेजः प्रवर्ग्यः तेजसैव तेजः समर्धयति – तैआ ५.१०.२

वज्रो वै यूपो , अन्नं यवो , यद्यवमतीभिः प्रोक्षति वज्रेण वा एतदन्नं जयति, तेजो वै यूप , एष खलु वा ओषधीनां तेजो यद्यवस्तस्मादेतं शिशिरा ओषधयोऽनुप्राणन्ति, यद्यवमवास्यति तेजसि वा एतत्तेजो दधाति– मै ३.९.३

यजमानो वा अग्निष्ठास्तेजो घृतं, आन्तमविछिन्नमनक्ति, यजमानं एव तेजसानक्ति – मै ३.९.३

तेजसा कृष्णाजिनस्य लोमभिः संसृजति – तैसं ५.१.६.२-३

गायत्र्यौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो ब्रह्मवर्चसं गायत्री – ऐ १.५, १.२८ ......

तेजो वै गायत्री – तैसं ३.२.९.३, ५.१.३.५, ५.३.८.१ ....

तपोऽसि लोके श्रितम्। तेजसः प्रतिष्ठा – तै ३.११.१.२

तेजोऽसि तपसि श्रितम्। समुद्रस्य प्रतिष्ठा – तै ३.११.१.३

दीक्षायै च त्वा (अग्ने) तपसश्च तेजसे जुहोमि – तैसं ३.३.१.१

तेजस्काम

१. तेजस्कामो हैतेन यजेत यन्नवरात्रः जै २, ३१६ ।।

२. श्वेतं वायवे नियुत्वता आलभेत तेजस्कामः । मै ३, ,१० ।

तेजस्वत्- अग्नये त्वा तेजस्वते एष ते योनिः । तैसं १, ,२९,; काठ ४,११; क ३, ९।

ग्रीष्मस्याहं देवयज्ययौजस्वाँस्तेजस्वान् भूयासम् – काठ ४.१४

 [ वत्- ओजस्वत्- .] ।

तेजस्विन्->तेजस्वितर- दक्षिणोऽर्द्धस्तेजस्वितरः । तै १, २४, २ ।।

एता (कूप्याः) वै तेजस्विनीरापः – तैआ १.२४.२