पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

त्रिपुर

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपं प्रति पुरस्तादुपायंस्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरं पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता असुरा अनपधृष्यैवापाद्रवंस्तेऽग्निनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना यत्पर्यग्नि कुर्वन्त्यग्निमयीरेव तत्पुरस्त्रिपुरं पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नयेऽन्वाह तं वा एतं पशुमाप्रीतं सन्तं पर्यग्निकृतमुदञ्चं नयन्ति तस्योल्मुकं पुरस्ताद्धरन्ति यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति यदेवैनमद आप्रीतं सन्तं पर्यग्निकृतं बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति तस्योवध्यगोहं खनन्त्यौषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति तदाहुर्यदेष हविरेव यत्पशुरथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेतां तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥ऐ.ब्रा. 2.11

परि वाजपतिः कविः । परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरित्यग्निमेवास्मा एतदुपस्तुत्य वर्म करोति परिवतीभिः परीव हि पुर आग्नेयीभिरग्निपुरामेवास्मा एतत्करोति सा हैषाग्निपुरा दीप्यमाना तिष्ठति तिसृभिस्त्रिपुरमेवास्मा एतत्करोति तस्मादु हैतत्पुरां परमं रूपं यत्त्रिपुरं स वै वर्षीयसा वर्षीयसा च्छन्दसा परां परां लेखां वरीयसीं करोति तस्मात्पुरां परा परा वरीयसी लेखा भवन्ति लेखा हि पुरः – श.ब्रा. ६.३.३.[२५]

या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥ - वा.सं. ५.८

स जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्नेऽयःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि सासीदयस्मयी हि साऽऽसीत् । अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने रजःशया तनूर्वर्षिष्ठा गह्वरेष्ठा उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि साऽऽसीद्रजता हि साऽऽसीत् । अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन्भवति या ते अग्ने हरिशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेत्येवंरूपा हि साऽऽसीद्धरिणी हि साऽऽसीद्यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकया – श.ब्रा. ३.४.४.[२५]

या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥ - तै.सं. १.३.११.२