पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Tunnavaaya to Daaruka ) Radha Gupta, Suman Agarwal & Vipin Kumar)
|
|
तृतीया देव्याः कवचे तृतीयातिथौ चन्द्रघण्टादेव्याः अर्चनस्य निर्देशमस्ति। तृतीयातिथेः महत्त्वस्य आकलने पद्मपुराणे ५.३६.७१ कथनमस्ति - वैशाखादि तिथौ राम उवास रणभूमिषु। अभिषिक्तो द्वितीयायां लंकाराज्ये विभीषणः। सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् यत् वैशाखशुक्लप्रतिपदातिथौ रामः रणक्षेत्रे आसीत्, द्वितीयातिथौ विभीषणस्य लंकाराज्ये अभिषेकं अभवत् एवं तृतीयातिथौ सीतायाः शुद्धिपरीक्षा अभवत्। आध्यात्मिकदृष्ट्या अयं तृतीयातिथेः एकं आकलनं अस्ति। अस्मिन् तिथौ प्रकृतेः शुद्धि परीक्षा भविष्यति – सा काली अस्ति अथवा गौरी अस्ति। सोमयागेषु एकः वर्गः दशरात्रः सोमयागः अस्ति। दशरात्रसंज्ञकस्य सोमयागस्य तृतीयस्याह्नः वैशिष्ट्यं वैरूपसंज्ञकः सामः अस्ति। वैदिकवाङ्मये अस्य अह्नः ये लक्षणाः सन्ति, तेषां आविर्भावं पुराणानां कथानकेषु भवति, यथा विरूपतः रूपस्य प्राप्तिः। एकं लक्षणं अथवा लक्ष्यं वायोः प्लावनेन अभ्राणां संप्लावनमस्ति (अभ्राणि संप्लवन्त इति भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् । उपवाज्यमाना वा यजमानवाचनादनन्तरं वात आवात्विति तृचेन वातमनुमन्त्रयेत । - आर्षेयकल्पः उपोद्घातः पृ. ७०) । शतपथब्राह्मणे १.५.२.१८ कथनमस्ति - ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् । अयं संकेतमस्ति यत् अभ्राणां संप्लावनात् पूर्वं ये कृत्याः अपेक्षिताः सन्ति, यथा पुरोवातस्य वहनं, तेषां सम्पादनं प्रथमे एवं द्वितीये अहनि कृतमस्ति। अभ्राणां संप्लावनान्तरं वृष्ट्यै विद्युत् एवं स्तनयित्नोः अपेक्षा भवति। तेषां संपादनं तृतीयाह्नस्य उपरि ये अहानि सन्ति, तेषु भविष्यति। अष्ट वैरूपेषु सामेषु द्वितीयतः सप्तम् साम्नां पर्यन्तं अश्वा शिशुमती शब्दयोः समावेशं अस्ति। यः साम्नां मूलं अस्ति, तत्र एतयोः शब्दयोः अस्तित्वं नास्ति। वाजसनेयि संहिता २१.३३ मध्ये सौत्रामणीयागस्य संदर्भे अश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इति उल्लेखमस्ति। सरस्वती धेनुः अस्ति, न अश्वा। अश्वा कः अस्ति, अयं स्पष्टं नास्ति । अश्वा शिशुमती अस्ति। शिशोः पालनस्य आवश्यकतृ अस्ति। किमयं चन्द्रमसः रूपमस्ति, विचारणीयः। पुराणेषु कथनाः सन्ति यत् अस्याः पृथिव्याः अर्धं शशमस्ति, अर्धं पिप्पलम्। पिप्पलः क्रियायां निहितः अस्ति, शशः क्रियातः मुक्तः अस्ति। सोमयागे तृतीये अहनि संवत्सरस्य निर्माणं भवति। संवत्सरस्य निर्माणं पृथिवी, सूर्य एवं चन्द्रमसः युग्मनेन भवति। तृतीये अहनि यः पञ्चनिधनं वैरूपं लाक्षणिकसामः अस्ति, तस्मिन् दिशंविशं शब्दः प्रकटयति। कथनमस्ति यत् अस्मिन् अहनि प्रकृत्यां दिशानां एवं ऋतूनां प्राकट्यं भवति येन अन्नस्य आविर्भावं भवति। पुराणेषु सार्वत्रिकरूपेण तृतीयातिथौ सौभाग्याष्टकद्रव्याणां संभरणस्य निर्देशाः सन्ति। कथनमस्ति यत् सौभाग्यः एकलरूपेण विष्णोः वक्षःस्थले विद्यमानः आसीत्। केनापि कारणेन अग्नेः प्राकट्यमभवत्, येन सौभाग्यस्य द्रवणमभवत्। दक्षप्रजापतिना तस्य पानमकरोत्, यतः गौर्याः उत्पत्तिरभवत्। सौभाग्यस्य यः शेषभागः आसीत्, तस्य पृथिव्योपरि प्रसरणं अभवत्, येन सौभाग्याष्टकसंज्ञकद्रव्याणां उत्पत्तिरभवत्। तृतीयातिथौ सौभाग्याष्टकद्रव्यस्य संग्रहणस्य सार्वत्रिकनिर्देशमस्ति। अयं संकेतं ददाति यत् तृतीयातिथिः अनाहतचक्रतः सम्बद्धा अस्ति। किन्तु चन्द्रघण्टा देव्याः सम्बन्धं नाभ्यां स्थितस्य मणिपूरचक्रेण सह अस्ति। अतएव, अनुमानमस्ति यत् सौभाग्यस्य द्रवणाय यस्य अग्नेः आवश्यकता भवति, तस्य पूर्तिः मणिपूरचक्रः करोति। प्रसंगवशात् , विष्णोः वक्षस्थलः श्रीवत्सस्य स्थानमस्ति। सीतोपनिषत् ३५ अनुसारेण यः योगशक्तिरूपः श्रीवत्सः अस्ति, तत् मूलरूपेण इच्छाशक्तिः अस्ति - इच्छशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिर्भूत्वा विश्राम्यतीति सा योगशक्तिः ॥ |